|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.157. अध्यायः 157
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
नहुषेणागस्त्यस्य स्वयाने योजनम्॥ 1 ॥ तथा तेन सह श्रुतिप्रामाण्यविवादे स्वविरुद्धभाषिणोऽगस्त्यस्य मस्तके स्वपादेन ताडनम्॥ 2 ॥ तदा तज्जटान्तर्निगूढेन भृगुणा शापदानेन तस्याधःपातनम्॥ 3 ॥ ततो देवैरिन्द्रस्य स्वपदेऽभिषेचनम्॥ 4 । नहुषस्य स्वकृतपूर्वबलिदीपदानादिजसुकृतमहिम्ना पुनः स्वर्गप्राप्तिः॥ 5 ॥
Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
कथं वै स विपन्नश्च कथं वै पातितो भुवि।
कथं देवेन्द्रतां प्राप्तस्तद्भवान्वक्तुमर्हति॥ 13-157-1(87440)
भीष्म उवाच। 13-157-2x(7318)
एवं तयोः संवदतोः क्रियास्तस्य महात्मनः।
सर्वा एव प्रवर्तन्ते या दिव्या याश्च मानुषाः॥ 13-157-2(87441)
तथैव दीपदानानि सर्वोपकरणानि वै।
बलिकर्म च यच्चान्यद्वत्सकाश्च पृथग्विधाः॥ 13-157-3(87442)
सर्वास्तस्य समुत्पन्ना देवेन्द्रस्य महात्मनः।
देवलोके नृलोके च सदाचारपुरस्कृताः॥ 13-157-4(87443)
ताश्चोद्भवन्ति राजेन्द्र समृद्ध्यै गृहमेधिनः।
धूपप्रदानैर्दीपैश्च नमस्कारैस्तथैव च॥ 13-157-5(87444)
यथा सिद्धस्य चान्नस्य गृह्य चाग्रं प्रदीयते।
बलयश्च गृहोद्देशे ततः प्रीयन्ति देवताः॥ 13-157-6(87445)
यथा च गृहिणस्तोषो भवेद्वै बलिकर्मणि।
तथा शतगुणा प्रीतिर्देवतानां प्रजायते॥ 13-157-7(87446)
एवं धूपप्रदानं च दीपदानं च साधवः।
प्रयच्छति नमस्कारैर्युक्तमात्मगुणावहम्॥ 13-157-8(87447)
स्नानेनाद्भिश्च यत्कर्म क्रियते वै विपश्चिता।
नमस्कारप्रयुक्तेन तेन प्रीणन्ति देवताः॥ 13-157-9(87448)
पितरश्च महाभागा ऋषयश्च तपोधनाः।
गृह्याश्च देवताः सर्वाः प्रीयन्ते विधिनाऽर्चिताः॥ 13-157-10(87449)
इत्येतां बुद्धिमास्थाय नहुषः स नरेश्वरः।
सुरेन्द्रत्वं महत्प्राप्य कृतवानेतदद्भुतम्॥ 13-157-11(87450)
कस्य चित्त्वथ कालस्य भाग्यक्षय उपस्थिते।
सर्वमेतदवज्ञाय न चकार यथाविधि॥ 13-157-12(87451)
ततः स परिहीणोऽभूत्सुरेन्द्रो बलदर्पतः।
धूपदीपादिकविधिं न यथावच्चकार ह।
ततोऽस्य यज्ञविषयो रक्षोभिः परिबाध्यते॥ 13-157-13(87452)
अथागस्त्यमृषिश्रेष्ठं वाहनायाजुहाव ह।
द्रुतं सरस्वतीकूलात्स्मयन्निव महाबलः॥ 13-157-14(87453)
ततो भृगुर्महातेजा मैत्रावरुणिमब्रवीत्।
निमीलयस्व नयने जटां यावद्विशामि ते।
`सुरेन्द्रपतनायेति स च नेत्र न्यमीलयत्॥' 13-157-15(87454)
ततोऽगस्त्यस्याथ जटां दृष्ट्वा प्राविशदच्युतः।
भृगुः स सुमहातेजाः पातनाय नृपस्य च॥ 13-157-16(87455)
ततः स देवराट् प्राप्तस्तमृषिं वाहनाय वै।
ततोऽगस्त्यः सुरपतिं वाक्यमाह विशाम्पते।
योजयस्वेति मां क्षिप्रं कं च देशं वहामि ते॥ 13-157-17(87456)
यत्र वक्ष्यसि तत्र त्वां नयिष्यामि सुराधिप।
इत्युक्तो नरहुषस्तेन योजयामास तं मुनिम्॥ 13-157-18(87457)
भृगुस्तस्य जटान्तस्थो बभूव हृषितो भृशम्।
न चापि दर्शनं तस्य चकार स भृगुस्तदा।
वरदानप्रभावज्ञो नहुषस्य महात्मनः॥ 13-157-19(87458)
न चुकोप तदाऽगस्त्यो युक्तोऽपि नहुषेण वै।
तं तु राजा पदैकेन चोदयामास भारत।
`श्रुतिः स्मृतिः प्रमाणं वा नेतिवादेन देवराट्॥' 13-157-20(87459)
न चुकोप स धर्मात्मा ततः पादेन देवराट्।
अगस्त्यस्य तदा क्रुद्धो वामेनाभ्यहनच्छिरः॥ 13-157-21(87460)
तस्मिञ्शिरस्यभिहते स जटान्तर्गतो भृगुः।
शशाप बलवत्क्रुद्धो नहुषं पापचेतसम्॥ 13-157-22(87461)
यस्मात्पदाऽवधीः क्रोधाच्छिरसीमं महामुनिम्।
तस्मादाशु महीं गच्छ सर्पो भूत्वा सुदुर्मते॥ 13-157-23(87462)
शप्तोऽथ स तदा तेन सर्पो भूत्वा पपात ह।
अदृष्टेनाथ भृगुणा भूतले भरतर्षभ॥ 13-157-24(87463)
भृगुं हि यदि सोऽद्राक्षीन्नहुषः पृथिवीपते।
स शक्तोनाऽभविष्यद्वै पातने तस्य तेजसा॥ 13-157-25(87464)
स तु तैस्तैः प्रदानैश्च तपोभिर्नियमैस्तथा।
पतितोऽपि महाराज भूतले स्मृतिमानभूत्॥ 13-157-26(87465)
प्रसादयामास भृगुं शापान्तो मे भवेदिति।
ततोऽगस्त्यः कृपाविष्टः प्रासादयत तं भृगुम्।
शापान्तार्थं महाराज स च प्रादात्कृपान्वितः॥ 13-157-27(87466)
भृगुरुवाच। 13-157-28x(7319)
राजा युधिष्ठिरो नाम भविष्यति कुरूद्वहः।
स त्वां मोक्षयिता शापादित्युक्त्वाऽन्तरधीयत॥ 13-157-28(87467)
अगस्त्योऽपि महातेजाः कृत्वा कार्यं शतक्रतोः।
स्वमाश्रमपदं प्रायात्पूज्यमानो द्विजातिभिः॥ 13-157-29(87468)
नहुषोऽपि त्वया राजंस्तस्माच्छापात्समुद्धृतः।
जगाम ब्रह्मभवनं पश्यतस्ते जनाधिप॥ 13-157-30(87469)
तदा स पातयित्वा तं नहुषं भूतले भृगुः।
जगाम ब्रह्मभवनं ब्रह्मणे च न्यवेदयत्॥ 13-157-31(87470)
ततः शक्रं समानाय्य देवानाह पितामहः।
वरदानान्मम सुरा नहुषो राज्यमाप्तवान्।
स चागस्त्येन क्रुद्धेन भ्रंशितो भूतलं गतः॥ 13-157-32(87471)
न च शक्यं विना राज्ञा सुखं वर्तयितुं क्वचित्।
तस्मादयं पुनः शक्रो देवराज्येऽभिषिच्यताम्॥ 13-157-33(87472)
एवं सम्भाषमाणं तु देवाः पार्थ पितामहम्।
एवमस्त्विति संहृष्टाः प्रत्यूचुस्तं नराधिप॥ 13-157-34(87473)
सोऽभिषिक्तो भगवता देवराज्ये च वासवः।
ब्रह्मणा राजशार्दूल यथापूर्वं व्यरोचत॥ 13-157-35(87474)
एवमेतत्पुरावृत्तं नहुषस्य व्यतिक्रमात्।
स च तैरेव संसिद्धो नहुषः कर्मभिः पुनः॥ 13-157-36(87475)
तस्माद्दीपाः प्रदातव्याः सायं वै गृहमेधिभिः।
दिव्यं चक्षुरवाप्नोति प्रेत्य दीपस्य दायकः।
पूर्णचन्द्रप्रतीकाशा दीपदाश्च भवन्त्युत॥ 13-157-37(87476)
यावदक्षिनिमेषाणि ज्वलन्ते तावतीः समाः।
रूपवान्बलवांश्चापि नरो भवति दीपदः॥ 13-157-38(87477)
य इदं शृणुयाद्वापि पठते यो द्विजोत्तमः।
ब्रह्मलोकमवाप्नोति स च वै नात्र संशयः॥ ॥ 13-157-39(87478)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तपञ्चाशदधिकशततमोऽध्यायः॥ 157 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-157-3 वत्सकाः पुत्रादेर्वार्षिकोत्सवाः। यच्चान्यदुत्सेकाश्चेति थ.ध.पाठः॥ 7-157-20 तं तु राजा प्रतोदेनेति झ.पाठः॥ 7-157-30 भवनं तेन पुण्येन कर्मणेति थ.ध.पाठः॥ 7-157-38 रूपवान्धर्मवांश्चापीति ध.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|